November 19, 2025

UPAAJTAK

TEZ KHABAR, AAP KI KHABAR

वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:।* *निर्विघ्नं कुरु मे देव, शुभ कार्येषु सर्वदा॥"*

वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:।* *निर्विघ्नं कुरु मे देव, शुभ कार्येषु सर्वदा॥”*

*”वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:।*
*निर्विघ्नं कुरु मे देव, शुभ कार्येषु सर्वदा॥”*

*सर्वेष्टप्रदं गजाननस्तोत्रम्*

*श्रीगणेशाय नमः ।*
*कपिल उवाच ।*
*नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।*
*अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥*

*आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥*

*देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥*

*साङ्ख्याय वै विदेहानां संयोगानां निजात्मने ।*
*चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४॥*

*नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।*
*आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५॥*

*आनन्दानां महाविष्णुरूपाय नेति धारिणाम् ।*
*शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ६॥*

*कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्।*
*समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७॥*

*स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।*
*तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८॥*

*निर्मायिकस्वरूपाणामयोगाय नमो नमः ।*
*योगानां योगरूपाय गणेशाय नमो नमः ॥ ९॥*

*शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।*
*किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १०॥*

*ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।*
*हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११॥*

*श्रीगणेश उवाच ।*

*त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् ।*
*धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२॥*

*वरं वरय मत्तस्त्वं दास्यामि भक्तियन्त्रितः ।*
*त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ १३॥*

*तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह ।*
*त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४॥*

*त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह ।*
*ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५॥*

*यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।*
*एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६॥*

*गृत्समद उवाच ।*

*तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।*
*उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७॥*

*त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति ।*
*तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८॥*

*एवमुक्त्वान्तर्दधेऽसौ ढुण्ढिराजः प्रतापवान् ।*
*मुनिस्तं हृदि सञ्चिन्त्य स्वाश्रमस्थो बभूव ह ॥ १९॥*

*इति श्रीमुद्गलपुराणे कपिलमुनिप्रोक्तं गजाननस्तोत्रं सम्पूर्णम्।*

*॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ७१ । २.७१। ३५-५३॥*
❣️
🪷❤️🪷🩵🪷💖🪷🩷🪷💕
🪷🧡🪷🩶🪷🤍🪷💛🪷
🙏🙏
*ॐ एकदंताय विद्महे वक्रतुंडाय धीमहि तन्नो दंती प्रचोदयात्॥*
*ॐ श्री गणेशाय नमः 🙏🙏*

Taza Khabar